प्रार्थना मन्त्र (prathana mantra)

 


त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥

मूकं करोति वाचालं पङ्गु लङ्घयते गिरिम्

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ।।

कस्तुरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रे वरमौत्तिकं करतले वेणुः करे कंकणम् ॥

सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूड़ामणिः ॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं वर्हावतंसप्रियं

श्रीवत्सांकमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ॥

गोपीनां नयनोत्पलार्चिततर्नु गोगोपसंघावृतं

 गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूष भजे॥

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेषयन्तम ।

वटस्य पत्रस्य पुटे शयानं बालं मुकुन्द मनसा स्मरामि ॥

हरे मुरारे मधुकैटभारे, गोपाल गोविन्द मुकुन्द सांवरे

यज्ञेश, नारायण कृष्ण विष्णु निराश्रयं मांम जगदीश रक्षः ॥


Comments

Popular posts from this blog

ईशावास्योपनिषद् / शुक्लयजुर्वेदकाे ४० अैां अध्याय ( Ishavashyopanishad / 40 th chapter of Shuklayajurveda. )

ब्रह्मज्ञान माला,श्री आदि शंकराचार्य द्वारा रचित //Brahmagyanmala Adi Shankaracharya//

स्कन्दपुराणकाे हिमवत्खण्ड अन्तर्गत नेपाल महिमा (Glory of Nepal in Himavatkhanda, Skandapurana )

नुवाकाेट देविघाटमा अवस्थित भैरवतीर्थ र भैरवेश्वर शिवलिङ्गको महिमा (स्कन्दपुराणकाे हिमवत् खण्डअन्तर्गत अध्याय ११५ )

संस्कृत अक्षर उत्पति / महेश्वर सुत्र/शिव सुत्र/ Origin of Sanskrit Letters/ Maheshwor Sutra/Shiva Sutra